|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.241. अध्यायः 241
Mahabharata - Vana Parva - Chapter Topics
द्वैतवने सरोऽभितः क्रीडास्थाननिर्माणायाज्ञसानां दुर्योधनभृत्यानां पूर्वमेव तत्रागतैर्गन्धर्वैः प्रतिवारणम् ॥ 1 ॥ भृत्यैर्गन्धर्वकृतनिवारणं निवेदितेन दुर्योधनेन तेषामुत्सारणाय सेनाप्रेषणम् ॥ 2 ॥ गन्धर्वैः परुषभाषणैर्भोपितैर्भटैर्दुर्योधनं प्रति तन्निवेदनम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-241-0x(2595)(25364)
अथ दुर्योधनो राजा तत्रतत्र वने वसन्।
जगाम घोषानभितस्तत्र चक्रे निवेशनम् ॥ 3-241-1(25365)
रमणीये समाज्ञाते सोदके समहीरुहे।
देशे सर्वगुणोपेते चक्रुरावसथान्नराः ॥ 3-241-2(25366)
तथैव तत्समीपस्थान्पृथगावसथान्बहून्।
कर्णस्य शकुनेश्चैव भ्रातॄणां चैव सर्वशः ॥ 3-241-3(25367)
पश्यन्तस्ते तदा गावः शतशोऽथ सहस्रशः।
अङ्कर्लक्षैश्च ताः सर्वा लक्षयामास पार्थिवः ॥ 3-241-4(25368)
अङ्कयामास वत्सांश्च जज्ञे चोपसृतांस्त्वपि।
बालवत्साश्च यां गावः कालयामास ता अपि ॥ 3-241-5(25369)
अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान्।
वृतो गोपालकैः प्रीतो व्याहरत्कुरुनन्दनः ॥ 3-241-6(25370)
स च पौरजनः सर्वः सर्वः सैनिकाश्च सहस्रशः।
यथोपजोषं चिक्रीडुर्वने तस्मिन्यथाऽमराः ॥ 3-241-7(25371)
ततोऽध्वगमनाच्छ्रान्तं कुशला नृत्यवादितैः।
धार्तराष्ट्रमुपातिष्ठन्कन्याश्चैव स्वलंकृताः ॥ 3-241-8(25372)
स स्त्रीगणवृतो राजा प्रहृष्टः प्रददौ वसु।
तेभ्यो यथार्हमन्नानि पानानि विविधानि च ॥ 3-241-9(25373)
ततस्ते सहिताः सर्वे तरक्षून्महिषान्मृगान्।
गवयर्क्षवराहांश्च समन्तात्पर्यवारयन् ॥ 3-241-10(25374)
स ताञ्छरैर्विनिर्भिद्य गजांश्च सुबहून्वने।
रमणीयेषु देशेषु ग्राहयामास वै मृगान् ॥ 3-241-11(25375)
गोरसानुपयुञ्जान उपभोगांशच् भारत।
पश्यन्स रमणीयानि वनान्युपवनानि च ॥ 3-241-12(25376)
मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च।
अगच्छदानुपूर्व्येण पुण्यं द्वैतवनं सरः ॥ 3-241-13(25377)
मत्तभ्रमरसंजुष्टं नीलकण्ठरवाकुलम्।
सप्तच्छदसमाकीर्णं पुन्नागवकुलैर्युतम् ॥ 3-241-14(25378)
ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत्।
यदृच्छया च तत्रस्थो धर्मपुत्रो युधिष्ठिरः ॥ 3-241-15(25379)
ईजे राजर्षियज्ञेन साद्यस्केन विशांपते।
दिव्येन विधिना चैव वन्येन कुरुसत्तम ॥ 3-241-16(25380)
`विद्वद्भिः सहितो धीमान्ब्राह्मणैर्वनवासिभिः'।
कृत्वा निवेशमभितः सरसस्तस्य कौरव।
द्रौपद्या सहितो धीमान्धर्मपत्न्या नराधिपः ॥ 3-241-17(25381)
ततो दुर्योधनः प्रेष्यानादिदेश सहानुजः।
आक्रीडावसथाञ्शीघ्रं कुरुध्वं सरसोऽभितः ॥ 3-241-18(25382)
ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः।
चिकीर्षन्तस्तदाक्रीडाञ्जग्मुर्द्वैतवनं सरः ॥ 3-241-19(25383)
सेनाग्र्यं धार्तराष्ट्रस् प्राप्तं द्वैतवनं सरः ॥ 3-241-20(25384)
प्रविशन्तं वनद्वारि गन्धर्वाः समवारयन्।
तत्र गन्धऱ्वराजो वै पूर्वमेव विशांपते।
कुबेरभवनाद्राजन्नाजगाम गणावृतः ॥ 3-241-21(25385)
गणैरप्सरसां चैव त्रिदशानां तथाऽऽत्मजैः।
विहारशीलैः क्रीडार्थं तेन तत्संवृतं सरः ॥ 3-241-22(25386)
तेन तत्संवृतं दृष्ट्वा ते राजपरिचारकाः।
प्रतिजग्मुस्ततो राजन्यत्र दुर्योधनो नृपः ॥ 3-241-23(25387)
स तु तेषां वचः श्रुत्वा सैनिकान्युद्धदुर्मदान्।
प्रेषयामास कौरव्य उत्सारयत तानिति ॥ 3-241-24(25388)
तस्य तद्वचनं श्रुत्वा राज्ञः सेनाग्रयायिनः।
सरो द्वैनवनं गत्वा गन्धर्वानिदमब्रुवन् ॥ 3-241-25(25389)
राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली।
चिक्रीडिषुरिहायाति तदर्थमपसर्पत ॥ 3-241-26(25390)
एवमुक्तास्तु गन्धर्वाः रप्रहसन्तो विशांमपते।
प्रत्यब्रुवंस्तान्पुरुषानिदं हि परुषं वचः ॥ 3-241-27(25391)
न चेतयति वो राजा मन्दबुद्धिः सुयोधनः।
योऽस्मानाज्ञापयत्येवं वश्यानिव दिवौकसः ॥ 3-241-28(25392)
यूयं मुमूर्षवश्चापि मन्दप्रज्ञा न संशयः।
ये तस् वचनादेवमस्मान्ब्रूथ विचेतसः ॥ 3-241-29(25393)
गच्छध्वं त्वरिताः सर्वे यत्र राजा स कौरवः।
न चेदद्यैव गच्छध्वं धर्मराजनिवेशनम् ॥ 3-241-30(25394)
एवमुक्तास्तु गन्धर्वै राज्ञः सेनाग्रयायिनः।
संप्राद्रवन्यतो राजा धृतराष्ट्रसुतोऽभवत् ॥ 3-241-31(25395)
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि एकचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 241 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-241-4 स ददर्श तदा गावः इति झ. पाठः। अङ्कैश्चिह्नैः। लक्षैः संख्यानैः। लक्षा नपुंसि संख्यायामिति मेदिनी ॥ 3-241-5 जज्ञे ज्ञातवान्। उपसृतान् दमनार्हान् वत्सतरान्समीपागतान्वा कालयामास संख्यातवान् ॥ 3-241-6 त्रिहायनांस्त्रिवर्षान्वृषान्। व्याहरत् विजहार ॥ 3-241-7 यथोपजोषं यथारुचि ॥ 3-241-16 साद्यस्केन एकाहसाध्येने ॥ 3-241-22 आत्मजैर्जयन्तादिभिः सहेति शेषः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|